________________
॥ षष्ठोऽध्यायः ॥
अर्थालङ्काराणामेवकोनत्रिंशतमाह११३) हृद्यं साधर्म्यमुपमा ॥१॥
कार्यकारणादिकयोरसंभवादुपमानोपमेययोरेव साधर्म्यं भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा । हृद्यं सहृदयहृदयाह्लादकारि । तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधर्म्य नोपमा, तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ च । हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलङ्कारमुपतिष्ठते । साधर्म्य च देशादिभिर्भिनानां गुणक्रियादिसाधारणधर्मत्वम् । अभेदे ह्येकत्वमेव स्यात् । तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमलक्षणे साम्ये नोपमा। यदा तु द्वितीयः पुरुषशब्दः शब्दशक्तिमूलव्यङ्ग्यपरतयावदातकर्मवचनस्तदानीं भिन्नत्वाद्भवत्येव । यथा
निध्नन्नभिमुखः शूरोऽनेकशो बहुशः परान् । - सङ्ग्रामे विचरत्येष पुरुषः पुरुषो यथा ॥५०२।।
एवं यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेदः कल्प्यते तत्राप्युपमा भवति । यथा
न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । ___ यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥५०३।।
१५
तत्र देशेनोपमानोपमेययोर्भेदो यथा-'मथुरेव पाटलिपुत्रमाढ्यजनपदम् । कालेन यथा-'वसन्त इव हेमन्तः कामिना सुखहेतुः' । क्रियया यथा-'नृत्तमिव गमनमस्याः सविलासम्' । गुणेन यथा-'गौरीव श्यामा सुभगा' । जात्या यथा-'विप्र इव क्षत्रियः श्रोत्रियः' । द्रव्येण यथा-'तीर्थकर इव गणधरः पूज्यः' । समवायेन यथा-'विषाणित्वमिव दंष्ट्रित्वं हिंम्रम्' । अभावेन यथा-मोक्ष इव समाधौ दुःखाभावः'।
११४) सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ॥२॥
सेत्युपमा । प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धयप्रसिद्धी च कविविवक्षावशादेव । धर्मो मनोज्ञत्वादिः । उपमावाचका इव-वा-यथा-शब्दाः सदृशसन्निभादयश्च । अमीषामुपादाने पूर्णा । सा च वाक्ये वृत्तौ च भवति ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org