________________
२४८
[काव्यानुशासनम् यदाह ध्वनिकारः
(३५) अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥
1 [ध्वन्यालोक ३.३९] सा च काकुर्द्विविधा-साकाङ्क्षा निराकाङ्क्षा च । वाक्यस्य साकाङ्क्षनिराकानत्वात् । यस्माद् वाक्याद् यादृशः सङ्केतबलेनार्थः प्रतीयते, न तादृश एव, किन्तु न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद् वाक्यं साकाङ्कम् । तद्विपरीतं निराकासम् । वक्तृगता ह्याकाङ्क्षा वाक्य उपचर्यते । सा च प्रकरणबलानिश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते ।
विषयोऽपि त्रिविधः-अर्थान्तरं, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा-'देशः १० सोऽयमराति-शोणितजलैर्' (पृ. २१४) इति । अत्र साकाङ्क्षकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः ।
स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क्क स क स दशाननो ननु निवेद्यतां राक्षसाः ॥५००।।
२०
अत्र ‘तदात्मज इहाङ्गदः' इति साकाझ्या काक्वा स्वगता वालिपुत्रोचिता विशेषा अर्घ्यन्ते । 'निर्वाणवैरि(? र)दहनाः' (पृ. १६६) इति । अत्र भवन्तीति साकाङ्क्षा काकुर्भवनाभावमाह भवन्त्विति । वचनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवनलक्षणमर्पयति । न भवन्त्येवेत्यर्थः ।
११२) भिन्नाकृते: शब्दस्यैकार्थतेव पुनरुक्ताभासः ॥९॥
भिन्नरूपाणां सार्थकानर्थकाना शब्दानां एकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः । यथा
सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥५०१॥
[देवीशतक ५५] ___ हे देवि विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे । अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती । अत्र ‘भासि विराजसे' इत्यादयः शब्दाः सार्थकाः । उदकंपयःशब्दौ निरर्थको-।
इति। आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दालङ्कारवर्णन: पञ्चमोऽध्यायः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org