________________
ર૪૬
[काव्यानुशासनम् संस्कृतापभ्रंशयोर्यथा
क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥४९६।।
[रुद्रट ४.२१] एवं द्वियोगान्तरे त्रिचतुःपञ्चयोगेषु चोदाहर्यम् । षड्योगे यथा
अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥४९७॥
[देवीशतक ७४] १० हे चण्डि देवि, रक्ष । अचपललक्ष्मि, मनःप्रधानपद्यालये । महामोहस्य जन्मलक्षाभ्यस्ताया अविद्याया भञ्जने उग्रं यद् बलं तेन अकलङ्के ।
१११) उक्तस्यान्येनान्यथा श्लेषादुक्तिर्वक्रोक्तिः ॥८॥ अन्येन वक्त्रान्यथोक्तस्यान्येन प्रतिवक्त्रा श्लेषाद् भङ्गाभङ्गरूपादन्यथाभिधानं वक्रोक्तिः । भङ्गाद् यथा
किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥४९८॥
___ [रुद्रट २.१५] अभङ्गाद् यथा
कोऽयं द्वारि, हरिः प्रया[पवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । कान्तेऽहं मधुसूदनो व्रज लतां तामेव मध्वन्वितामित्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः ॥४९९।।
__ [सुभाषितावलौ (१०४)] काकुवक्रोक्तिस्त्वलङ्कारत्वेन न वाच्या । पाठधर्मत्वात् । तथा च (३४) 'अभिप्रायवान् पाठधर्मः काकुः स कथमलङ्कारीस्यादिति यायावरीयः ।'
[काव्यमीमांसा अ. ७ (पृ. ३१)] गुणीभूतव्यङ्ग्यप्रभेद एव चायम् । शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात् ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org