SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २४० [काव्यानुशासनम् अत्र विधुर्विधिश्चेति उकार-इकारयोर्वर्णयोर्भङ्गः । ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥४८३॥ [सुभाषितावलौ (२५८७)] अत्र महतीमापदं महत् पदं चेत्यादिपदानां भङ्गः । भक्तिप्रबविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥४८४।। [सुभाषितावलौ (४३) अमृतदत्तस्य] [काव्यप्रकाश, ९/३७२] ___ अमत्र नीता ईहितप्राप्तये इति च स्त्रीनपुंसकलिङ्गयोः श्लेषः ।। कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने । । हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥४८५॥ [स. कं. २.१६२] कश्चिद् युयुत्सुानानीतां भवानी स्वकान्तां च संस्कृतप्राकृतया वाचा तुष्टवे । हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि । अर्थान्मम । कीदृशे हरे ? लालसमर्थान्मनस्तद्भुवं कामं लेढि स्म यस्तत्र । महिम्नैव वितर्कहर्तरि हरसन्निधौ हि सर्वाज्ञानाभिभव इति श्रुतिः । तोहन्त्यर्दन्ति येऽरयस्तैर्विरहिते सिंहबलशरीरे २० परिणेतरि श्रेष्ठम् । उमाया एव वा इमानि संबोधनपदानि । प्राकृते तु-हे वरे कान्ते तु(?तुह)तव सम्बन्धिनि । कुरु लालसभूलेखे महिमोहगृहे हारिणि विच्छिन्ने च तनुमध्यत्वात् । हरिप्रियाप्रधानवपुषि यद् वरं नयनाननस्तनजघनादि तन्मेऽभिलाषं हरतु कामं पूरयतु । एवं भाषान्तरभङ्गेऽप्युदाहार्यम् । ____ आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । भयकृद्रूपते बाहुर्द्विषां च सुहृदां च ते ॥४८६।। २५ अत्र नौतिनुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्गः । त्वदुद्धृतामयस्थानरूढव्रणकिणाकृतिः । विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥४८७।। [स. कं. २.१५५] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy