SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २३८ १० १५ २० २५ कारकगूढं यथा मौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावणे वारिकह्लारशीतलम् ||४७९॥ अत्र 'शरौ' इति कर्मणो गूढत्वम् । संबन्धगूढं यथा अत्र न मे चेत आगोरसाभिज्ञमिति संबन्धगूढम् । पादगूढं यथा Jain Education International [ न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥४८० ॥ वियगामिनी तारसंरावविहतश्रुतिः । हैमे (? मी ) माला शुशुभे ........ ॥४८१॥ [काव्यादर्श ३.१०८] [काव्यानुशासनम् [ किरात० १५.४३] अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वात् गूढत्वम् । गूढादीत्यादिपदेन प्रश्नोत्तरप्रहेलिकादुर्वचकादिग्रहः । एतच्च कष्टकाव्यत्वात् क्रीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते । १०९) अर्थभेदभिन्नानां शब्दानां भङ्गभङ्गाभ्यां युगपदुक्तिः श्लेषः ||६|| 'अर्थभेदाच्छब्दभेदः' इति नये वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्न–स्वरूपापह्नवनम् । श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेधा भवति । यथा अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥४८२॥ ] For Private & Personal Use Only [ सरस्वती कंठाभरणटीका पृ. २२६, काव्यप्रकाश ९.३६९ ] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy