SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २३६ [काव्यानुशासनम् अत्र कृपणेति। विभूतिर्भस्म च । महापदेति शुभावासेति संबोधने पदद्वयम् । महापदोऽशुभस्यावासेति पदमेकं च । अर्धमात्राच्युतं यथा पयोधरभराक्रान्ते विद्युल्लेखाविराजिते । कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥४७५।। अत्र 'इन्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् । बिन्दुच्युतं यथा सहसा नलिनी ताराशारिता गगनावनिः । - शोभते भूमिपालानां सभा च विबुधाश्रिता ॥४७६।। सह हसेन विकासेनेत्यपि। वर्णच्युतं यथा सितनृशिरःम्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक् पृथुललाटतटे तिलकक्रिया च सा। स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च तद् अभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्धयुक् ॥४७७॥ ___ अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षरसप्तकच्युतौ चेश्वररूपवर्णनमेव २० प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्यन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन । गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा स्तनगुरुजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥४७८॥ [सर. कण्ठा० २.३६६] ____ हे युवानः कथमिव यूयं न स्थ इति क्रियागूढम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy