________________
२३४
आकारः खङ्गमुरजबन्धाद्याकृतिः, तच्चित्रं यथा
मारारिशक्ररोमेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ||४७१ ॥ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥४७२||
[ रुद्रट ५.६-७]
मारारिः शिवः । रामो मुसली । आसारतुल्यवेगेन सर्वेषामाद्या । खड्गः । तथा च द्राढिकान्तरे साधारणो मा-शब्दः । तस्य दक्षिणातोऽधः क्रमेण वर्णाश्चतुर्दश । शिखायां साधारणः साशब्दः । ऊर्ध्वक्रमेण वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् । तस्यैव माशब्दस्य दक्षिणतो १० निःसरणक्रमेण वामतंच्च प्रवेशक्रमेण वर्णाः सप्तसप्त । एषा द्राढिका । ततो माशब्दादूर्ध्वक्रमेण गण्डिकायां वर्णत्रयम् । उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कुलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयम् । एतन्मस्तकम् । सामामाशब्दा द्विपञ्चकृत्वो द्विरावृत्ताः ।
या दमानवमानन्द - पदमाननमानदा । दानमानक्षमा नित्यधनमानवमानिता ॥ ४७३॥
१५
[देवीशतक १५ ]
या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शमं सुखलाभः । मुखस्य पूजां ददाति । निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता । मानं ज्ञानम् ।
मुरजबन्धः । तथा हि पादचतुष्टयेन पङ्क्तिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि । चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथमः पादः । द्वितीयात् प्रथमं प्रथमाद् द्वितीयतृतीये २० द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात् तृतीयद्वितीये । तृतीयात् पादात् प्रथममक्षरं गृहीत्वा द्वितीयः पादः । द्वितीयादष्टमं, प्रथमात् सप्तमषष्ठे, द्वितीयतृतीयाभ्यां पञ्चमे चतुर्थात् षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा तृतीयः पादः । चतुर्थादिभ्यः प्रथमादीनि प्रथमादिभ्यः पञ्चमादीनि पादेभ्योऽक्षराणि गृहीत्वा चतुर्थः पादः । एवं मुसलधनुर्बाणचक्रपद्यादय उदाहार्याः ।
२५
च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा । तत्र मात्राच्युतकं यथाभूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः ।
महापदशुभावास त्वत्समः कुपतिः कुतः ॥४७४||
[
[काव्यानुशासनम्
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org