________________
२३२
[काव्यानुशासनम् रणपराङ्मुखा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना, न पुरुषो, य ऊनेन हीनेन जितः । विजितहीनोऽपि पुरुषोऽपुरुषः । ननु सम्बोधने । जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जितं जितं नुदतीति । एकव्यञ्जनम् । एवं द्वित्र्यादि व्यञ्जननियमे उदाहार्यम् । स्थानमुरःकण्ठादि । तच्चित्रं यथा
अगा गां गाङ्गकाकाकगाहकाधककाकहा।
अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ॥४६९||
[काव्यादर्श ३.९१] कश्चित्पुरुषः स्तूयते-हे गाङ्गकाकाकगाहक गङ्गासम्बन्धीषजलकुटिलगतिविलोडक, त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता। जिहीतेः क्विपि हानं हाः । न हां गतिं जहाति यत्तथाविधमङ्गं यस्य १० स खगः सूर्यश्चिद्रं यस्य स गिरिरर्थान्मेरुस्तत्र कङ्काख्या: पर्वतपतत्रिणः काककाः शब्दकारिणो यस्य । स
त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमानकीर्तिर्गामगाः स्वर्गं गतोऽसीत्याशंसायां भूतवन्निर्देशः । कायति अर्थमभिधत्त इति काकः शब्द औणादिके के तं करोतीति णिचि तदन्तात् णके च काककः । कण्ठस्थानम् । एवं द्वित्र्यादिस्थाननियम उदाहार्यम् । . गतिर्गतप्रत्यागतादिका, तच्चित्रं यथा
वारणागगभीरा सा साराऽभीगगणारवा । कारितारिवधा सेनाऽनासेधा वरितारिका ॥४७०॥
__ [शिशुपाल० १९.४४] करिगिरिदुर्विगाहा । उत्कृष्टा । अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया । स्वार्थे णिग् । अविद्यमान आसेधो यस्याः । मया सह युद्धयध्वमिति वरिताः प्रार्थिता २० अरयो यया सा यदूनां सेना । द्विषतां बलं प्रयातेति पूर्वेण सम्बन्धः । अत्रायुक्पादयोर्गतिर्युक्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम् ।।
एवमर्धगतप्रत्यागतश्लोकगतप्रत्यागतसर्वतोभद्रार्धभ्रमतुरङ्गपदगोमूत्रिकादीन्युदाहार्याणि ।
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org