________________
२३०
[काव्यानुशासनम् ___ त्रिधा विभक्ते द्वाचत्वरिंशत् । चतुर्धा विभक्ते षट्पञ्चाशत् । प्रथमपादादिगतान्त्यार्धादिभागा द्वितीय-पादादिगताद्यार्धादिभागे यम्यन्त इत्याद्यन्वर्थतानुसरेणनाने कभेदमन्तादिकादिकम् । अन्तादिकमाद्यन्तकं तत्समुच्चयः । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः । तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थान आवृत्तिरिति प्रभूततमभेदं यमकम् ।
एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात् काव्यगडुभूततेति भेदलक्षणं न कृतम् । काव्यं हि महाकवयः सुकुमारमतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति । न च पृथग्यत्ननिर्वर्त्ययमकादिनिरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमङ्ग न कष्टकाव्यम् । तथा च लोल(? ल्ल)टः ।
(३३) यस्तु सरिदद्रिसागरनगतुरगपुरादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेषु ।। यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः ।
अभिमानमात्रमेतद्गड्डरिकादिप्रवाहो वा ॥ इति । [लोल(? ल्ल)टः] १०८) स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् ॥५॥ स्वरादीनां नियमश्च्युतं गूढादिश्च चित्रसादृश्यादाश्चर्यहेतुत्वाद् वा चित्रम् । तत्र स्वरचित्रं यथा
जय मदनगजनदमन वरकलभगतगमन ।
गतजननगदमरण भवभयगनरशरण ॥४६७॥ [ ह्रस्वैकस्वरम् । एवं दीर्धकस्वरद्वित्र्यादिस्वरनियम उदाहार्यम् । व्यञ्जनचित्रं यथा
न नोननुन्नो नुन्नोनो नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥४६८।।
[किरात० १५.१४]
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org