________________
२२८
[काव्यानुशासनम् सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानल समस्थितः ॥४६०।।
[रुद्रट ३.१९] महापुरुषः, पुनः, शत्रुसमूहम्, भरात्, वशे वर्तमानम् । बलरहितं, दीर्घाक्रन्द, सर्वकालं संग्राम प्रापयामास । अवानलसं अपि तु त्वरितं गच्छन् । अस्थीनि तस्यात्युपक्षिणोति । सत्त्वेन ये आरम्भास्तेषु रतः । सर्वथा आश्रितं तरुत्वग् वसनं येन शत्रुसमूहेन । सर्वेषां दारणे यो मानस्तमिच्छति । दवाग्निना समं स्थितं यस्य ।
तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभाग: पूर्ववद्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेवित्यष्टाविंशतिर्भेदाः । १० श्लोकान्तरे हि न भागावृत्तिः संभवति । यथा
सरस्वति पदं चित्तसरस्वति विधेहि मे। त्वां विना हि न शोभन्ते नराः काया इवासुभिः ॥४६१॥
करेण ते रणेष्वन्तकरण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति सन्ध्याघना इव ॥४६२॥
[काव्यादर्श ३.२६] भवानि शं विधेहि मे भवानिशं कृपापरा । उपासनानि यज्जनोऽभवानि शंसति त्वयि ॥४६३।।
परागतरुराजीव वातैर्ध्वस्ता भटैश्चमूः ।। परागतमिव क्वापि परागततमम्बरम् ॥४६४।।
[काव्यादर्श ३.२७] पातु वो भगवान् विष्णुः सदा नवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥४६५।।
[काव्यादर्श ३.२८] पदद्वयं कपालिनः पुनातु लोकपालिनः । अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥४६६॥
एवमन्यान्यप्युहार्याणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org