SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २२६ ५ १० १५ २० २५ १०७) तत्पादे भागे वा ॥ ४ ॥ तद् यमकं पादे तस्य च भागे भवति । तत्र पादजं पञ्चदशधा । तथा हि-प्रथमो द्वितीयादौ वर्तते द्वितीयतृतीयादौ । तृतीयश्चतुर्थ इति षट् । प्रथमो द्वितीयतृतीययोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोर्द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः । प्रथमस्त्रिष्वपीत्येकः । प्रथमो द्वितीये तृतीयश्चतुर्थे इति । प्रथमश्चतुर्थे द्वितीयतृतीय इति द्वौ । अर्धावृत्तिः श्लोकावृत्तिश्चेति द्वे इति । यथा चक्रं दहतारं चक्रन्द हतारं । खड्गेन तवाजौ राजन्नरिनारी ॥ ४५५ ॥ कश्चिद्राजानमाह-समूहम्, घ्नता, अरिसंबन्धि, रुरोद भग्नाशा अत्यर्थम् । संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं याच मानेन युनक्ति प्रणतं जनम् ॥ ४५६॥ रणं, देव्याः, जितेन्द्रियं पूजया, ज्ञानेन वा । [काव्यानुशासनम् Jain Education International प्रभावतो नामन वासवस्य प्रभावतोऽ नाम नवासवस्य । प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य ||४५७|| [दंडी, काव्यादर्श ३.६३] प्रभावात् । शक्रस्य । तेजस्विनः । नामन नतेः कारक । अनाम नमनरहित । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छेद आसीत् । नवा- इत्येक एव निपातः प्रतिषेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि । अर्धावृत्तिर्यथा सत्वारं भरतो वश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥ ४५९॥ [ रुद्रट ३.४] सा रक्षतादपारा ते रसकृद्गौरबाधिका सारक्षतादपारातेरसकृद्गौरवाधिका ॥४५८॥ [देवीशतक १६ ] सा देवी, त्रायताम्, अनन्ता, तव, रागकृदभिमतं वस्त्वित्यर्थः । वाग्रूपा, पालनी, उत्कृष्टक्षतेः, अपगतविपक्षात्, अविरतम्, गौरवेणाधिका सर्वेषां गुरुरित्यर्थः । श्लोकावृत्तिर्यथा For Private & Personal Use Only [देवीशतक १४ ] [ रुद्रट ३.१८] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy