________________
२२४
१०
१५
२०
२५
[काव्यानुशासनम्
इत्यादावेकेषाकमर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थे - इत्युक्तम् । न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणं पौनरुक्त्यप्रसक्तेरिति सामर्थ्यलब्धेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिषितो भवति बन्धुबन्धुरत्वादिना च प्रयुक्त एव शब्दः पुनः प्रयुज्यते
उदेति सविता ताम्रस्ताम्र एवास्तमेति च । ॥४४८||
[सुभाषितावलौ २२०] इत्यादौ तत्र पौनरुक्त्यदोषाभावाद्यमकत्वं केन निवार्येतेत्यन्यार्थानामित्युपात्तम् । श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्त्यौष्ठ्यौष्ठयवकारबकारादिवर्णभेदे लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोर्वास्तवे विशेषे यमकबन्धो न विरुध्यते । यथातस्यारिजातं नृपतेरपश्यदवलम्बनम् । यौनिर्झरसंभोगैरपश्श्यदबलं वनम् ॥४४९॥
अवलम्बनं पार्ष्णिग्राहाक्रन्दासारादि । प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत् । अबलं सैन्यरहितं वनं काननम् । अत्रैकत्र वबौ दन्त्यौष्ठयौष्ठ्यौ । अपरत्र ओष्ठयदन्त्यौष्ठचौ । अपश्यदित्येक त्रैकः शकारोऽपरत्र द्वौ । तथा
भवानि ये निरन्तरं तव प्रणामलालसाः ।
मनस्तमोमलालसा भवन्ति नैव ते क्वचित् ॥४५०॥
[देवीशतक ५९ ]
चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः । मलालसेत्यत्र तु लघुप्रयत्नतरः । तथा नकार - णकारयोरस्वरमकारनकारयोर्विसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित् । यथावेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम् ||४५१॥
[
पातयाशु रथं धीर समीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥ ४५२|| [ द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । . द्विषयसि कथं वृकयूथादजा यथा ॥ ४५३॥ [
क्रमैक्यग्रहणात् ‘सरो रसः’ इत्यादी । (7)
Jain Education International
प्रवणः प्रणवो यत्र प्रथमः प्रथमेषु यः ।
]
For Private & Personal Use Only
1
रणवान् वारणमुखः स वः पातु विनायकः || ४५४ || [स. कं. २ / २०८, पृ. २४६ ] इत्यादौ च यमकत्वं मा भूत् ।
]
www.jainelibrary.org