SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २१६ [काव्यानुशासनम् अत्र यद्यपि न वाच्यं क्रोधादिव्यञ्जकं काव्यं चाभिनेयार्थं, तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः । क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव । यथा प्रौढच्छेदानुरूपोच्छलनरयभवत्सँहिकेयोपघात- त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतनिपतति वियतः कुम्भकर्णोत्तमाङ्गम् ।।४३२।। __ [छलितरामायणे.....] क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव । यथा-आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः । १० कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसतव्यम् ।। इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञ काव्यानुशासनवृत्तौ गुणविवेचनश्चतुर्थोऽध्यायः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy