________________
२१४
[काव्यानुशासनम् न पुनरेवं यथा
देशः सोयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥४२९॥
[वेणी० ३.३३] अत्र च यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः । अथ प्रसादलक्षणमाह१०१) विकासहेतुः प्रसादः सर्वत्र ॥७॥ विकासः शुष्कन्धनाग्निवत्स्वच्छजलवच्च सहसैव चेतसो व्याप्तिः । सर्वत्रेति सर्वेषु रसेषु । एतद्यञ्जकानाह१०२) इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः ॥८॥ श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे । प्रसादस्य व्यञ्जका इत्यर्थः । यथा
दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥४३०।।
। माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिरित्याचक्षते । वैदर्भी गौडीया २० पाञ्चाली चेति रीतय इत्यन्ये । यदाह
(३२) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते ।
ओजःप्रकाशकैस्तैऽस्तु परुषा कोमला परैः ।।
केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥ [काव्यप्रकाश ९.८०-८१] यद्यपि गुणेषु नियता वर्णादयस्तथापि२५ १०३) वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि ॥९॥ तत्र वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव वर्णादयः । यथा
मन्थायस्तार्णवाम्भः प्रतिकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटाऽन्योन्यसंघट्टचण्डः ।
• कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः ३० __ केनास्मात्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥४३१॥
वेिणी० १.२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org