SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २०६ [काव्यानुशासनम् परिवृत्तोऽनियमो नियमेन यथा (वक्त्राम्भोज सरस्वत्यधिवसति सदा शोण एवाधरस्ते) बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्य: पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥४१९।। [भोजप्रबन्ध श्लो. २३०] अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । परिवृत्तं सामान्यं विशेषेण यथा कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावमंस्थाः । ( किं कौस्तुभेन विहितो भवतो न नाम याञ्चाप्रसारितकरः पुरुषोत्तमोऽपि ॥४२०॥ [भल्लट० ६२] अत्र ‘एकेन किं न विहितो भवतः स नाम' इति सामान्ये वाच्ये कौस्तुभेनेति विशेष उक्तः । परिवृत्तो विशेषः सामान्येन यथा ( श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैः) मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।।४२१।। विद्धशाल० ३.१] अत्र ज्योत्स्नामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्तम् । परिवृत्तो विधिरनुवादेन यथा (अरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन ।) सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना ॥४२२॥ २० __ २५ अत्र विधौ वाच्ये विरहिप्राणदमनेति-अनुवाद उक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy