________________
२००
५.
१०
१५
२०
२५
उचितसहचारिभेदो भिन्नसहचरत्वम्, यथा
श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा ।
निशा शशाङ्केन धृतिः समाधिना नयेन वालङ्कयते नरेन्द्रता ॥ ४०४||
अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् ।
[
अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् । विरुद्धं व्यङ्ग्यं यस्य तद्भावो विरुद्धव्यङ्ग्यत्वम्, यथा-
ब) लग्नं रागावृताङ्गय: (पृ. १४४) ॥४०५॥ [ सुभाषितावली २५१५, हर्षदत्तस्य ] इति अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते । प्रसिद्धया विद्याभिश्च विरुद्धत्वम् । तत्र प्रसिद्धिविरुद्धत्वं यथाइदं ते केनोक्तं कथय कमलातङ्कवदने
यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तद्दुःसाध्यक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥ ४०६|| [
[काव्यानुशासनम्
उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ||४०७||
Jain Education International
]
[भट्टेन्दुराजस्य ]
इति । अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाङ्कुरोद्गमः । यथा वानुप्रासेचक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिधूर्ध्वजान्ता
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥ ४०८||
For Private & Personal Use Only
]
[सूर्यशतक ७१]
अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृता न पुराणादिषु तथा प्रतीता । कदाचिच्चक्रिणश्चक्रारप्रियत्वं संभाव्येताप्युत्तराणि तु न तथा संगच्छन्त इति प्रसिद्धिविरोधः ।
www.jainelibrary.org