SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ (१९८ र __१० [काव्यानुशासनम् अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययु ङ्गमुखराः शिरःशेखरशालिनः ॥३९४॥ [ एषु कर्णश्रवणशिरःशब्देभ्यः सन्निधानस्य प्रतिपत्तिः । प्राणेश्वरपरिष्वङ्ग-विभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥३९५|| [ अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः । प्रायशः पुष्पमालेव कन्यका कं न लोभयेत् ॥३९६॥ [ अत्र पुष्पशब्दादुत्कर्षप्रतीतिः । 'त्यज करिकलभ प्रेमबन्धं करिण्याः' ॥३९७॥ [ अत्र करिशब्दात्ताद्रूप्यावगतिः । यत्र तु न विशेषप्रतिपत्तिर्यथा 'ज्याबन्धनिष्पन्दभुजेन यस्य' ॥३९८॥ [रघु० ६.४०] इति । 'अदादिन्द्राय कुण्डले' ॥३९९॥ [ ] इति । 'पाण्डयोऽयमंसार्पितलम्बहारः' ॥४००॥ [ रघु० ६.६० ] इति । 'मालाकार इवारामः' ॥४०१।। इति 'लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति ॥४०२॥ [ ] इति च तत्र केवला एव ज्यादिशब्दाः, । न च नितम्बकाञ्चुष्करभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात् । (२९) संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चयः [ 1 इति । क्वचिद् गुणो यथा प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । /संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।।४०३।। भर्तृहरि : वैराग्य० ६७] अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत शान्तरसपोषाय यदाह (३०) वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्ते तत्पुनरुक्तं न दोषाय ॥इति । [रुद्रट ६.२९] २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy