________________
१९६
[काव्यानुशासनम् इत्युक्त्वैकार्थमेवाह
कपाटविस्तीणरमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥३८६॥
__ [शिशुपाल० ३.१३] यथा वा
। 'अश्वीयसंहतिभिरुद्धतमुद्धराभिः' ॥३८७।।
अत्राश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् । तथा। छायामपास्य महतीमपि वर्तमानामागामिनी जगृहिरे जनतास्तरूणाम् ॥३८८।।
[शिशुपाल० ५.१४] अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य । तथा
'पायात् स शीतकिरणाभरणो भवो वः' ॥३८९॥ अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य । तत्र पौनरुक्त्यमेव नास्ति।
यथा
तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । - कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युतिं किं मम धन्विनोऽन्ये ॥३९०॥
__ [कुमार० ३.१०] अत्र हशब्दस्य । अथ यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्तरेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि २० भविष्यति । नैवम् । सप्तम्युत्तमनिर्देशेनैवास्मदर्थस्य विशेष्यस्य प्रतिपादितत्वात् । एवं धनुर्व्यादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुक्त्यम् । यदाह(२८) 'धनुर्ध्याशब्दे धनुःश्रुतिरारुढेः प्रतिपत्त्यै' ( ) इत्यादि । यथा
___ 'धनुर्व्याकिणचिह्नेन दोष्णा विस्फुरितं तव' ॥३९१।। अत्र धनुःशब्दाद्वारूढेः प्रतिपत्तिः ।
दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ॥३९२॥
'लीलाचलच्छवणकुण्डलमापतन्ति' ॥३९३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org