________________
१९४
[काव्यानुशासनम् यत इति तत इत्यत्रार्थे । अत्र शस्त्रमोचनं हेतुमाकाङ्क्षति । यत्र त्वाकाङ्क्षा नास्ति तत्र न दोषः । यथा
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । '. उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।।३७९।।
[कुमार० १.४३] ५ अत्र रात्रौ पद्यस्य संकोचो, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुत' इति हेतुं नापेक्षते । संशयहेतुत्वं सन्दिग्धत्वं यथा
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । रम्या नितम्बाः किमु भूधराणामुत स्मरस्मेराविलासिनीनाम् ॥३८०।।
[भर्तृहरि : शृङ्गार० ३६] अत्र प्रकरणाद्यभावे सन्देहः । शान्तशृङ्गारयोरन्यतराभिधाने तु निश्चयः । प्रधानस्यार्थस्य पूर्वं निर्देशः क्रमस्तदभावोऽक्रमत्वम् । यथा
. 'तुरगमथवा मातङ्ग मे प्रयच्छ मदालसम्' ॥३८॥ अत्र मातङ्गस्य प्राग् निर्देशो न्याय्यः । यदा तूदारसत्त्वो गुर्वादिर्बलाद् ग्राह्यमाणस्तुरगमित्यादि वक्ति तदा न दोषः । क्रमानुष्ठानाभावो वाक्रमत्वम् । यथा
काराविऊण खरं गामउडो मज्जिऊण जिमिऊण । नक्खत्तं तिहिवारे जोइसिअं पुच्छिउं चलिओ ॥३८२।।
१०
२०
क्वचिदतिशयोक्यौ गुण: यथा
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥३८३॥
[काव्यादर्श २.२८] यत्तूद्देशिनामन।शिनां च क्रमभ्रंशोऽक्रमत्वम् । यथा
- 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ' ॥३८४॥ इति । तत्र पदरचना विपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति । द्विरभिधानं पुनरुक्तम्, यथा
प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरीति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकाम्या झुरसीतरा तु ॥३८५॥
- [शिशुपाल० ३.१२]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org