________________
१९२
[काव्यानुशासनम् अत्र वर्णसावर्ण्यमानं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्यपुष्टार्थत्वम् । पूर्वापरव्याघातो व्याहतत्वम् यथा
जहि शत्रुकूलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः' ॥३७४॥
[काव्यादर्श ३.१४२] अत्र शत्रुवधोऽविद्वेष्यभावेन व्याहतः । अवैदाध्यं ग्राम्यत्वं यथा
___स्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते। - इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ॥३७५।।
१५
व्रीडादिव्यञ्जकत्वमश्लीलत्वं यथा
__ हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । - यथाशु जायते पातो न तथा पुनरुन्नतिः ॥३७६।।
[भामह १.५१] एतद्वाक्यं खलेषु प्रयुज्यमानं सेपसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः । । साकाश्त्वम्, यथा
अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्षं च परस्य मानयशसोर्विश्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥३७७।।
[महावीरचरित २.९] अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षति । न हि परस्येत्यनेन संबन्धो योग्यः । यथा च
गृहीतं येनासीः परिभवभयानोचितमपि प्रभावाद्यस्याभून खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान तु भयाद् विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥३७८।।
वेणी० ३.१९]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org