SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ १९० १० १५ अत्रापकृष्टश्छादितमकार्येषु मित्रम् । अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । क्वचिदुणः यथा ३० अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषाः कर्तुमुपेत्य माननाम् ॥ ३६९ ॥ [शिशुपाल० १६.२] अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना निर्भयचित्तश्च । माननामिति पूजां निबर्हणं . च । अत्र विपरीतार्थकल्पनाद् विरुद्धत्वेऽपि सन्ध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिघानाद् गुणत्वम् । अथार्थदोषा: ९१) कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसन्दिग्धाक्रमपुनरुक्तसहचरभिन्नविरुद्धव्यङ्ग्यप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वा न्यर्थस्य ||७|| दोष इति वर्तते । कष्टावगम्यत्वात्कष्टत्वमर्थस्य, यथासदामध्ये यासाममृतरसनिष्पन्दसरसं [काव्यानुशासनम् सरस्वत्युद्दामा वहति बहुमार्गां परिमलम् । प्रसादं ता एता घनपरिचयाः केन महतां महाकाव्यव्योम्नि स्फुरितरुचिरायान्तु रुचयः || ३७०॥ [ यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योम्नि सर्गबन्धलक्षणे परिचयमागताः । कथमभिनेयकाव्यवत्प्रसादं यान्तु । तथा यासामादित्यप्रभाणां मध्ये त्रिपगथा वहति, ता मेघपरिचिताः २० कथं प्रसन्ना भवन्तीति संक्षेपार्थः । प्रकृतानुपयोगोऽपुष्टार्थत्वम् । यथा Jain Education International तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् । फालेन लङ्घयामास हनूमानेष सागरम् ||३७१|| [ २५ अत्र तामलश्यामलत्वादयोऽनुपादानेऽपि प्रकृतमर्थं न बाधन्त इत्यपुष्टाः । यथा वानुप्रासेभण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । -/ यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥ ३७२ ॥ अनणुरणन्मणिमेखलमविरतसिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ ३७३॥ For Private & Personal Use Only ] [ रुद्रट २.२२-२३] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy