________________
१८४
[काव्यानुशासनम्
यथा वा
संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः
सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल । , इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान्
योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ॥३५३॥
अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि-यत्र यत्तदोरेकतरनिर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवाद्य
विधेयार्थविषयत्वेनेष्टत्वात् । तयोश्च परस्परापेक्षया संबन्धस्य नित्यत्वात् । अत एवाहुः१० (२७) 'यत्तदोर्नित्यमभिसंबन्धः' इति । स चायमनयोरुपक्रमो द्विविधः-शाब्दश्चार्थश्चेति । तत्रोभयोरुपादाने सति शाब्दः, यथायदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ॥३५४||
- [रघु० १७.४२]
यथा च
१५
स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां शृणोति यः ॥३५५।। इति ।
एकतरस्योपादाने सत्यार्थस्तदितरस्यार्थसामर्थ्यनाक्षेपात् ।
तत्र तदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः । तत्र प्रसिद्धार्थविषयोः, २० यथा- 'द्वयं गतम्' (पृ. १४२) इत्यादि । अनुभूतविषयोः, यथा-'ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' (पृ. ५०) इति । प्रक्रान्तविषयोः, यथा
कातर्य केवला नीति शौर्यं श्वापदचेष्टितम् । अतः सिद्धं समेताभ्यामुभाभ्यामन्वियेष सः ॥३५६।।
[रघु० १७.४७] २५ यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्यार्थः संबन्धः संभवति, पूर्ववाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात्।
यथा
साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥३५७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org