________________
१८२
[काव्यानुशासनम् अत्र सायकानुवादेनामोघत्वं विधेयम् । ‘अमोघमाशुगम्' इति तु युक्तः पाठः । यथा च, मध्येव्योम त्रिशङ्कोः शतमखविमुखः स्वर्गसगं चकार ॥३४८॥
[बालरामायण १.२६] इत्यत्र हि व्योमैव प्राधान्येन विवक्षितं न तन्मध्यम् । तेन मध्ये व्योम्न इति युक्तम् । यथा च
वाच्यवैचित्र्यरचनाचारु वाचस्पतेरपि । दुर्वचं वचनं तेन बहु तत्रासम्यनुक्तवान् ॥३४९।।
१०
अत्र नोक्तवानिति निषेधो विधेयः । यथा-'नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः' (पृ. १३४) इत्यादौ । न चानुक्तवत्त्वानुवादेनान्यदत्र किंचिद्विहितम् । यथाजुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । सुखमन्वभूत् ॥३५०॥
[रघु० १.२१] अत्रात्रस्तताद्यनुवादेनात्मनो गोपनादि । वाक्यस्य यथा
शय्या शाद्वलमासनं शुचिशिला सद्य द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।। इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥३५१॥
[नागानन्द ४.२] २० अत्र शाद्वलाद्यनुवादेन शय्यादीनि विधेयानि । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, __ न वाक्यार्थस्य । एवं विध्यनुवादौ कर्तव्यौ
त्वक् तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥३५२॥
[बालरामायण ६.४०]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org