________________
१८०
[काव्यानुशासनम् अत्र शिरोधूननेन कम्पितस्य वचसि प्रक्रान्ते । क्वचिन्नीरसे न गुणो न दोषः । यथा
। शीर्णघ्राणाध्रिपाणीन् व्रणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेदत्तार्घाः सिद्धसंबैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥३४२।।
[सूर्यशतक ६] व्यवहितार्थप्रत्ययजनकत्वं क्लिष्टत्वम् । पदस्य, यथा
दक्षात्मजादयितवल्लभवेदिकानां - ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥३४३॥
दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदिकानामिति । झगित्यर्थप्रतीतौ गुणः । यथा-'काञ्चीगुणस्थानमनिन्दितायाः' । वाक्यस्य यथा
धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । - रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥३४४॥
२०
अत्र धम्मिल्लस्य शोभा प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् । अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टविधेयांशत्वम् । पदस्य यथा
विपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।) ... वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥३४५॥
[कुमार० ५.७२] अत्रालक्षितत्वं नानुवाद्यमपि तु विधेयमिति 'अलक्षिता जनिः' इति वाच्यम् । यथा च
सस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् । * न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥३४६।।
___ [कुमार० ३.५४] अत्र मौर्वी द्वितीयामिव इति द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । यथा च
तं कृपामृदुरवेक्ष्य भागर्वं राघवः स्खलितवीर्यमात्मनि । _ स्वं च संहितममोघसायकं व्याजहार हरसूनुसन्निभः ॥३४७।।
- [रघु० ११.८३]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org