SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १७४ [काव्यानुशासनम् अत्र 'भूतपूर्वेप्चरट्' (सिद्धहेम ७।२।७८) इति चरट्प्रत्यये किं पूर्वं साधुः, उत साधुषु चरतीति सन्देहः । क्वचिद् गुणो यथा पश्याम्यनङ्गजाताङ्कलङितां तामनिन्दिताम् । / कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥३२३।। ___ [काव्यादर्श ३.१४२] अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्द उत मृत्युवाचीति सन्देहकारीदं वचनं युवानमाकुलीकर्तुं प्रयुक्तमिति । वाक्यस्य यथा सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । - मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥३२४।। अत्र किं सुरादिशब्दो देवसेनाशरविभूत्यर्थ उत मदिराद्यर्थ इति सन्देहः । क्वचिद् गुणो यथा पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३२५॥ अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वाद् गुणत्वम् । अनुचितार्थत्वं पदस्य यथा तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या। X प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ॥३२६॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् । यथा वा उपमायाम् क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता। ४ शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥३२७।। [भामह २.५४] ___ तथा- 'वह्रिस्फुलिङ्ग इव भानुरयं चकास्ति' ॥३२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy