SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य, यथा भूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥३०२॥ कम्पना सेना वामं शत्रु प्रति विरुद्धं वल्गु वा। अत्रोपसर्पणप्रहणनमोहनशब्दाः व्रीडादायित्वादश्लीलाः। तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुचते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥३०३।। अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । - भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥३०४॥ २० पावकेन पवित्रेणाग्निना च । अत्र पितुर्गृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् । क्वचिद् गुणः, यथा सुरतारम्भगोष्ठया(२३) द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्तु [ ] इति। कामशास्त्रस्थितौ करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते । / उपसर्पन ध्वजः पुंसः साधनान्तर्विराजते ॥३०५॥ (२४) तर्जन्यनामिके श्लिष्टे मध्या पृष्ठस्थिता तयोः । करिहस्तः... || संबाधः संघट्टो वरांङ्ग च, ध्वजः पताकावच्चिद्रं पुव्यञ्जनं च, साधनं सैन्यं स्त्रीव्यञ्जनं च । शमकथासु यथा उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥३०६।। ( निर्वाणवैरदहनाः प्रशमादरीणां) नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः कृतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥३०७॥ वेणी० १.७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy