SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १६४ [काव्यानुशासनम् अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विद्यसंवादादौ गुणत्वम् । श्लेषे तु न गुणो न दोषः । यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥२९६।। __ [सुभाषितावलौ (४४) चन्दककवेः] अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्चाप्रयुक्तः । वाक्यस्य यथा । तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥२९७।। अत्राधिमात्रोपायादयः शब्दा योगशास्त्रप्रसिद्धाः । क्वचिद्गुणः यथा अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः ।। । अकिव यजादीनां दुर्लभं संप्रसारणम् ॥२९८।। अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा । तत्र पदस्य यथा (साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते) तस्य धीशालिनः कोऽन्यः सहेतारालितां भुवम् ॥२९९।। लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुद्मलिताननेन ददती वायुं स्थिता तस्य सा. भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ॥३००॥ [अमरु० ७२] मृदुपवनविभिन्नो मत्प्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽस्य जातः । रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बीं ॥३०१॥ [विक्रमोर्वशीयम् ४.१०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy