________________
१५८
[काव्यानुशासनम्
यथा वा
येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि
लीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः । । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥२७८॥
'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्योन्यम्' इति नियमेन बहुभिर्यदर्थेर्नेक एवार्थो निर्दिश्यत इति यैरित्यत्र विशेष्यस्याप्रतीतिः । 'क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः । यथा वा उपमायाम्
वापीव विमलं व्योम हंसीव धवलः शशी। शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥२७९॥
१०
तथा
सरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥२८०॥
4
अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसदृश्यादुपमानेन न सम्बध्यत इत्यनन्वितम् । यदि च लिङ्गवचसोर्विपरिणामादुपमानेनापि संबन्धः क्रियते तदाभ्यासलक्षणो वाक्यभेदः
स्यात् । एवं चाव्यवधानेन प्रकृतोऽर्थो न प्रतीयते । विपरिणामश्च शास्त्रीयो न्यायः काव्येषु न युक्तः । यत्र २० तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते न तत्रैतद् दूषणम् । यथा
वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना। ( स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥२८१॥
२५
/ चन्द्रमिव सुन्दरं मुखं पश्यति ॥२८२॥ [ । तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥२८३॥ इति
यत्रापि गम्यमानं साधारणधर्माभिधायि पदं तत्रापि न दोषः । यथा-चन्द्र इव मुखं, कमलमिव पाणिः, बिम्बफलमिवाधर इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org