________________
१५६
१०
१५
तथा
तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा सा चेत्कान्तिरतन्त्रमेव कनकं ताश्चेद्गिरो धिङ्मधु । j/ सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः || २७४||
[ बालरामायण २.१७; विद्वशाल० १.१४] अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं, तस्यार्थान्तरन्यासेन वस्तुसर्गपौनरुक्त्यस्य सादृश्यपर्यवसानाद्भग्नप्रक्रमत्वम् ।
वक्त्राद्यौचित्ये न दोषः -
व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ॥ २७५ ॥
[शिशुपाल० १५.८१]
अत्र शिशुना वजतिरेव प्रयुक्तो न च व्रजतिस्तत्रैव परिचयगतार्थास्फुटत्वधैर्यभेदित्वसंभवात् । केवलं शक्तिवैकल्याद्रेफोऽनेन नोच्चारितः ।
पदार्थानां परस्परमसम्बन्धोऽनन्वितत्वम्, यथा
[काव्यानुशासनम्
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य संहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥२७६॥ [
Jain Education International
1
अत्र यद्याकारः सन्निवेशलक्षणो विवक्षितस्तदा स परस्परपरिहारस्थितिमतोरर्थयोः सिद्ध एवेत्यनुपादेयः । २० अक्षरविशेषलक्षणस्तु शब्दनियतत्वादर्थयोर्न संभवत्येवेत्यनन्वितत्वम् । यथा वा
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ वीर्योदग्रे राजशब्दे मृगाणाम् ||२७७||
[ रघु० ३.६४ ]
अत्र सिंहानां न तावद्राजशब्दः संभवति तेषां तद्वाच्यत्वाभावात् तत्सम्बन्धाभावाच्च । तत्पर्यायस्य २५ मृगराजशब्दस्यास्तीति चेत् ? न, तस्य प्रक्रान्तत्वाभावात् । मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्च । किं च मृगेषु राजत्वं भवति सिंहानां, न तु शब्दे इति वीर्योदग्रत्वं तद्विशेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन सिंहानां मृगाणां वीर्योदग्रत्वस्य च न राजशब्देनान्वयः संगच्छते । तेन राजभाव इति वा मृगेष्विति वा पाठः श्रेयान् ।
For Private & Personal Use Only
www.jainelibrary.org