________________
१५४
[काव्यानुशासनम्
अत्र कारकस्य । 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम् ।
यथा च
१५
. चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । - तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥२७०।।
[शिशुपाल० १०.३३] अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः कन्तरं च यथा प्रक्रान्तं तथा न निव्यूढम् । 'तमपि वल्लभसङ्ग' इति तु युक्तम् ।
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोद्वैयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भेर्वह्रिमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥२७१।।
[शाकुन्तल ३.३] अत्र क्रमस्य । यथा वा
अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधाववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥२७२॥
[महावीरचरित २.३० यथा वा व्यतिरेकालङ्कारे
तरङ्गय दृशोऽङ्गने पततु चित्रमैन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय मनामुखं भवतु च द्विचन्द्रं नभः ॥२७३॥
[बालरामायण ३.२५; विद्धशाल० ३.२७] ___अत्रोपमानानामिन्दीवरादीनां निन्दगा नयनादीनामुपमेयानामतिशयो वक्तुं प्रक्रान्तो ‘भवतु च द्विचन्द्रं नभः' इति सादृश्यमात्राभिधानेन न नियूंढ इति भग्नप्रक्रमत्वम् । भवतु तद् विचन्द्रं नभः' इति तु युक्तम् ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org