SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १५२ [काव्यानुशासनम् अत्र गजेन्द्रचर्मैव दुकूलमस्येति युक्तम् । सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिबिसप्रसूनाः । 2 सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥२६४॥ [शिशुपाल० ५.२८] अत्र त्यादेः । 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। 4. निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥२६५॥ । [किरातार्जुनीय ३.४०] अत्र कृतः । 'सुखमीहितुं वा' इति तु युक्तम् । उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥२६६।। [बालरामायण १.८] अत्र पर्यायस्य । 'मिता भू: पत्यापां स च पतिरपां योजनशतम्' इति तु युक्तम् । विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । / लघुता नियता निरायतेरगरीयान्न पदं नृपश्रियः ॥२६७।। [किरातुर्जनीय २.१४] अत्रौपसर्गस्य पर्यायस्य च । 'तदभिभवः कुरुते निरायति, लघुतां भजते निरायतिः, लघुताभाग न पदम्' इति युक्तम् । उत्फुल्लकमलकेसरपरागगौरद्युति मम हि गौरि । - अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ॥२६८॥ [नागानन्द १.१३] अत्रैकवचनेन भगवतीं संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देशः स वचनस्य । कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । 2 किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥२६९॥ [कुमार० ४.७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy