________________
१५०
५
१०
१५
२०
२५
वाक्यमध्ये वाक्यान्तरानुप्रवेशो गर्भितत्वं यथापरापकारनिरतैर्दुर्जनैः सह संगतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ २५८॥
[
अत्र तृतीयः पादो वाक्यान्तरमध्ये प्रविष्टः 1 क्वचिद् गुणो यथा
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वन्दत एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ २५९ ॥
Jain Education International
अत्र वीराद्भुतरसवशात् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये प्रविष्टं गुणाय । प्रस्तुतभङ्गो भग्नप्रक्रमत्वं यथा
एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत ॥ २६०॥ अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । 'प्रत्यवोचत' इति युक्तम् । यथा वा
X
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ २६१ ॥
अत्र 'अनेन विसृष्टाः' इति वाच्यम् ।
[औचित्यविचारचर्चायां (पृ. १३८) भट्टप्रभाकरस्य ]
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
[काव्यानुशासनम्
I
For Private & Personal Use Only
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः || २६२ || [ किरातार्जुनीय ३.३४ ]
अत्र स्यादेः प्रत्ययस्य । 'तीव्रेण विद्वेषिभुवागसा च' इति तु युक्तम् । यथा वाबभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ २६३॥
[कुमार० ६.९४]
[कुमार० ७.३२]
www.jainelibrary.org