SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १४६ [काव्यानुशासनम् अत्र क्रमाक्रममनुप्रासो घनयितव्यः । पतनिबद्धः क्वचिद्गुणः, यथा प्रागप्राप्तनिशुम्भशाम्भवधनुद्वैधाविधाविर्भवत्क्रोधप्रेरितभीममार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलत्वत्कण्ठपीठातिथिर्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥२४७॥ [महावीर० २.३३] अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति । समाप्तपुनरात्तत्वं यथा ज्योत्स्ना लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालतीमालां गन्धजलैर्मघूनि कुरुते स्वादून्यसौ फाणितैः ।। यस्तस्य प्रथितान् गुणान् प्रथयति श्रीवीरचूडामणेस्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥२४८।। १५ अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं चमत्करोति ।। ___क्वचिन गुणो न दोषः । यत्र न विशेषणमात्रदानार्थं पुनर्ग्रहणमपि तु वाक्यार्थान्तरमेव क्रियते, यथा 'प्रागप्राप्त' (श्लो. २४७) इति । रोर्लोपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम् । यथा वीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । २० यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभान्विताः ॥२४९।। हतं लक्षणच्युतं यतिभ्रष्टं वा लक्षणानसिरणेऽप्यश्रव्यम्, अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतवृत्तत्वम् । यथा अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥२५०॥ अशत्र वैतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्यं निषिद्धमिति लक्षणच्युतम् । एतासां राजति सुमनसा दाम कण्ठावलम्बि ॥२५१॥ कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ॥२५२।। २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy