________________
१४४
१०
[काव्यानुशासनम् अत्र ‘इत्थं प्रोच्येव' इति न्याय्यम् । तथा
लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४२॥
[सुभाषितावलौ (२५९५) हर्षदत्तस्य) अत्र ‘इति श्रीनियोगाद्' इति वाच्यम् । तथा। तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ॥२४३।।
[रघुवंश १६.१३] इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोऽस्थानस्थपदत्वं दोषः । तथा
कष्टा वेधव्यथा नित्यं कष्टश्च वहनक्लमः । " श्रवणानामलङ्कारः कपोलस्य तु कुण्डलम् ॥२४४।।
[अनर्घराघव १.४०] अत्र श्रवणानामिति पदं पूर्वार्धे निवेशयितुमुचितम् ।। (२०) 'नाघे किञ्चिदसमाप्तं वाक्यम्' इति हि कविसमयः ।
[काव्यालङ्कार अधि. ५, अ. १, सू. ६] यथा वोत्प्रेक्षायाम्
. पत्तनिअंबप्फंसा पहाणुत्तिण्णाए सामलंगीए । चिहुरा रुअंति जलबिंदुएहिं बंधस्स व भएण ॥२४५।।
[गाथासप्तशती ६.५५] अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितं तत्र प्राधान्यात् रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम् । प्रधाने हृत्प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति । यदाह
7 (२१) एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः ।
तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यथा ।। इति पतत्प्रकर्षत्वं यथा
कः कः कुत्र न घुघुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥२४६।।
२५
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org