________________
१४२
[काव्यानुशासनम्
यथा
। अधिकरतलतल्पं कल्पितस्वापलीला, परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥२३५।।
अत्र लीलेति । क्वचिद्गुणो यथा लाटानुप्रासे
जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः ।। वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥२३६।।
२०
क्वचिच्छब्दशक्तिमूले ध्वनौ यथा
ताला जायन्ति गुणा जाला ते सहिअएहिं घिप्पंति । . रविकिरणाणुग्गहियाई हुंति कमलाई कमलाई ॥२३७॥ 2005 ..... ......... विषमबाणलीला....] विहितस्यानुवाद्यत्वे यथा(जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते ।) गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागाच्च भवन्ति सम्पदः ॥२३८॥
- [सुभाषितावलौ (२९१७) भारवेः] अस्थानस्थपदत्वं यथा
प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । " (म्रजं न काचिद् विजहौ जलाविला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥२३९॥ )
[किरातार्जुनीय ८.३७] अत्र ‘म्रजं काचिन्न जहौ' इति वाच्यम् । तथा
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । ) कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥२४०।।
[कुमार० ५.७१] अत्र त्वंशब्दादनन्तरश्चकारो युक्तः । तथा
शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री: __ वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खनयष्टिः । Y आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२४१।।
[सुभाषितावलौ (२५९६)]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org