________________
१४०
[काव्यानुशासनम् अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिव शब्दस्याधिक्यम् । यथा वा समासोक्तौ
स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥२३१॥
[हरविजय ३.३७] अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौ
आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते । मध्ये वा धुरि वा लसँस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनाम् धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥२३२।।
[भल्लट० ६९] अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् । तथा
द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । १५ बहुविधार्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥२३३।।
[भल्लट० ४] अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपात् 'भवानिव' इत्यधिकम् । क्वचिद्गुणो यथा
यद्वञ्चनाहितमतिर्बहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥२३४॥
___ [सुभाषितावलौ (२७१) भगवत्तरारोग्यस्य] अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेपरम् । २५ । उक्तपदत्वं द्विःप्रयोगः ।
। (१९) नैकं पदं द्विः प्रयोज्यं प्रायेणेति हि समयः ।
[काव्यालङ्कार० अधि. ५. अ. १.सू.१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org