SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १३८ [काव्यानुशासनम् तथा वासो जाम्बवपल्लवानि जघने गुञ्जास्रजो भूषणम् ।।२२२।। इति [बालरामायण ३.६१]] तदीयमातङ्गघटाविघट्टितैः ॥२२३॥ इति । [माघ १.६४] येनाकुम्भनिमग्नवन्यकरिणां यूथैः पय: पीयते ॥२२४॥ [ इत्यत्र तद्धितप्रत्ययस्याधिक्यम् । षष्ठीसमासाश्रयेणैव तदर्थावगतेः । यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिर्न तत्र समासात्तत्प्रतीतिरितिं न तस्याधिक्यम् । यथाअथ भूतानि वाघ्नशरेभ्यस्तत्र तत्रसुः ॥२२५।। इति । [किरातार्जुनीय १५.१] इति । अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति। तथाकिं पुनरीदृशे दुर्जाते जाते जातामर्षनिभरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य ॥२२६।। [हर्षचरित ६, पृ. १९३] इत्यत्र क्रियाकरणयोः । यथा वा उपमायां अहिणवमणहरविरइअवलयविहूसा विहाइ नववहुआ। कुंदलय व्व समुप्फुल्लगुच्छपरिलिंतभमरगणा ॥२२७।। २० अत्रोपमेयस्य नीलरत्नादेरनिर्देशे भ्रमरगणपदमतिरिच्यत इत्यधिकपदत्वम् । तथा अलिभिरञ्जनबिन्दुमनोहरैः कुसमभक्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थली न तिलकस्तिलकः प्रमदामिव ॥२२८।। रघु० ९.४१] अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्याधिकपदत्वम् । यथा वा रूपकेशोकानलधूमसम्भारसम्भूताम्भोदभरितमिव वर्षति नयनवारिधाराविसरं शरीरम् ॥२२९।। [हर्षचरित ६, पृ. १७९] अत्र शोकस्य केनचित्साधर्म्यणानलत्वेन रूपणमस्तु, धूमस्य पुनर्न किञ्चिद्रूप्यमस्तीति-अधिकपदत्वम् । तथा निर्मोकमुक्तिमिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य ॥२३०॥ ___हर्षचरित १, पृ. १९] ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy