SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १३४ [काव्यानुशासनम् तथा of चकाशे पनसप्रायः पुरी षण्डमहाद्रुमैः ॥२११॥ अत्र ‘शेष' इति 'पुरीषम्' इति ‘महाद्रुम' इति च व्रीडाजुगुप्सामङ्गलार्थस्मारकत्वादश्लीलाः । कष्टत्वात्, यथा । मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ॥२१२।। वक्त्राद्यौचित्ये चेति वक्ष्यमाणत्वाद्दुर्वचकादौ न दोषः । यदाहुः (१८) शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये । प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ॥ १० अवश्यवाच्यस्यानभिधाने न्यूनपदत्वं यथा-'तथाभूतां दृष्ट्वा' (पृ. ३०) इति । अत्रास्माभिरिति खिन्न इत्यस्मात्पूर्वमित्थमिति च नोक्तमिति न्यूनत्वम् । तथा त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपरामुखचेतसः । । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥२१३॥ __ [विक्रमोर्वशीयम् ४.२९] अत्रापराधस्य लवमपीत्यप्यर्थो वाच्यः । तथा नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूरात्कृष्टं न नाम शरासनम् । अयमयि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥२१४॥ विक्रमोर्वशीयम् ४.१] अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतानां नवजलधरसुरधनुर्धारासाराणामिव विद्युतोऽपीदमा परामर्शो वाच्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy