SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १३२ [काव्यानुशासनम् यमकादौ निरर्थकत्वं न दोष इति केचित् । यथा'/ योषितामतितरां नखलूनं गात्रमुज्ज्वलतया खलूनम् ॥२०५।। [शिशुपाल० १०.९०] बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥२०६।। शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा --(उन्मजन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः।) गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥२०७॥ [किरातार्जुनीय १७.६३] अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु । __ 'न दोषोऽनुकरणे' इति वक्ष्यमाणत्वात् ‘पश्यैष च गवित्याह' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाह८९) विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरत्त(त्ता?)विसर्गहतवृत्त संकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य ॥५॥ (१२) दोष इति वर्तते । तत्र सन्धिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, ___कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसन्धित्वम् । विश्लेषाद्यथा कमले इव लोचने इमे अनुबन्धाति विलासपद्धतिः २०८॥ ८ लोलालकानुविद्धानि आननानि चकासति ।।२०९।। २० संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । (१७) 'संहितैकपदवत्पादेष्वर्धान्तवर्जम्' [वामन ५.१.२.] इति हि काव्यसमयः । अश्लीलत्वाद्, यथा विरेचकमिदं नृत्यमाचार्याभासयोजितम् ॥२१०॥ [ अत्र 'विरेचकम्' इति जुगुप्सा । 'याभ' इति व्रीडा । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy