________________
१३०
[काव्यानुशासनम्
यदुक्तम्
।(१६) अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥ इति
1 [ध्वन्यालोक ३.१४, वृत्तौ] भक्त्या शब्दार्थयोर्दोषा इत्युक्तम् । तत्र च शब्दस्य पदवाक्यरूपत्वात्प्रथमं द्वौ पददोषावाह८८) निरर्थकासाधुत्वे पदस्य ॥४॥
दोष इति वर्तते । कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ । एवमुत्तरत्रापि योज्यम् । तत्र चादीनां पूरणार्थत्वे निरर्थकत्वं यथा
मुह्यन्मुहुर्मुहुरहं चपलाकुलाक्षः कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि । स्वामिन् भवच्चरणयोः शरणं प्रपन्नः । संसारदारुणदरेण हि कांदिशीकः ॥२०२।।
पदैकदेशः पदमेव तन्निरर्थकत्वं यथा
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।२०३।।
[
अत्र दृशामिति बहुवचनमनर्थकम् । कुरङ्गेक्षणाया एकस्या एवोपादनात् । न च
अलसवलितैः प्रेमाद्रा!र्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपरामुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥२०४॥
[अमरु० ४] __इत्यादिवद् व्यापारभेदाद् बहुत्वम्, व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org