________________
१२८
५
१०
१५
२०
२५
[काव्यानुशासनम्
अनङ्गस्य रसानुपकारकस्य वर्णनं यथा कर्पूरमञ्जर्यं नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य तस्य राज्ञा प्रशंसनम् ।
[ जवनिका १]
प्रकृतिव्यत्यय इति । प्रकृतिर्दिव्या मानुषी दिव्यमानुषी पातालीया मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातालीया चेति सप्तधा ।
वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता उत्तमाधममध्यमा च ।
तत्र रतिहासशोकाद्भुतानि मानुषोत्तमप्रकृतिवद्दिव्यादिष्वपि ।
किंतु रतिः संभोगशृङ्गाररूपा, उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्मनुचितम् । यत्तु कुमारसंभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद् भूम्ना न दोषत्वेन प्रतिभासते ।
क्रोधोऽपि भ्रुकुटयादिविकारवर्जितः सद्यः फलदो निबद्धव्यः ।
यथा
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ २०१ ||
[कुमारसंभव ३.७२]
स्वःपातालगमनसमुद्रलङ्घनादावुत्साहस्तु मानुषेभ्योऽन्येषु । मानुषेषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेव वर्णनीयम् । अधिकं तु निबध्यमानमसत्यप्रतिभासेन नायकवद्वर्तिव्यं, न प्रतिनायकवदित्युपदेशे न पर्यवस्येत् । एवमुक्तानां प्रकृतीनामन्यथावर्णनं व्यत्ययः ।
तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम्, नाधमेन, मुनिप्रभृतौ न राजादौ । भट्टारकेति न राजादौ । परमेश्वरेति न मुनिप्रभृतौ । प्रकृतिव्यत्ययापत्तेः । यदाह
(१५) तत्र भवन् भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ तत्रभवन् भगवन्निति नैवार्हत्युत्तमोऽपि राजानम् । वक्तुं नापि कथञ्चिन्मुनिं च परमेश्वरेशेति ॥
Jain Education International
एवं देशकालवयोजात्यादीनां वेषव्यवहारादि समुचितमेवोपनिबद्धव्यम् ।
[ रुद्रट ६.१९-२०]
For Private & Personal Use Only
www.jainelibrary.org