________________
१२६
[काव्यानुशासनम् अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावः क्लेशप्रतिपाद्यः ।
कर्पूरधूलिधवलद्युतिपूरधौतदिमण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंशुकनिवेशविशेषक्तृप्तिव्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥२०॥
अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिता इति क्लेशव्यक्तिः ।
पुनः पुनर्दीप्तिर्यथा कुमारसंभवे रतिप्रलापेषु (सर्ग ४) । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पः कल्पत इति । ___अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के दुर्योधनस्य धीरोद्धतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने । ___ अकाण्डे छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेऽङ्के रत्नावलीनामधेयमप्यगृहृतो विजयवर्मवृत्तान्ताकर्णने । यथा वा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरूढे वीररसे 'कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ।
अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा हयग्रीववधे हयग्रीवस्य । यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महाप्रबन्धेन समुद्रादेः । तथा हि हरिविजये-ईर्ष्याकुपितसत्यभामानुनयनप्रवृत्तस्य हरे: पारिजातहरणव्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गडुस्थानीयं विस्तृतम् । तथा कादम्बर्या 'रूपविलास' (का. पृ. १३) इत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवी-शबरेशाश्रममुनिनगरीनृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते 'जयति ज्वलद्' (ह. च. श्लो. २१, पृ. ६) इत्यादिना हर्षोत्कर्षवद् विजयबीजे बाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एव सारस्वतोत्पत्तिपर्यन्तो महान् ग्रन्थसन्दर्भः । शिशुपालवधादौ चादितः कृतप्रतिद्वन्द्विविजयबीजोपक्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि (सर्ग १-२) तदसङ्गतशृङ्गाराङ्गभूततत्तदृतूपवनविहारपुष्पावचायमज्जनादिवर्णनास्वत्यासक्तिः
(सर्ग ३-११) । तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भूयसा २५ दृश्यत इति तत्त्वं त एव विदन्ति ।
अङ्गिनः प्रधानस्याननुसन्धानं यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः । अनुसन्धिर्हि सर्वस्वं सहृदयतायाः, यथा तापसवत्सराजे षट्स्वप्यङ्केषु वासवदत्ताविषयः प्रेमबन्धः कथावशादाशयमानविच्छेदोऽप्यनुसंहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org