________________
१२४
[काव्यानुशासनम्
न ह्यत्र विधिस्तदैव तदेव कुरु माकार्षीरितिवदेकदा प्राधान्यलक्षणोऽपि त्वन्याङ्गतालक्षणोऽनुवादः । क्रीडन्ति, गच्छेति क्रीडन्तीति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः, न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य च वाच्यस्य यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । अथवा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारस्तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राग् यथा कामुक आचरति स्म तथा शराग्निरिति स्मर्यमाणशृङ्गारेणेदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते, यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति । यथा- 'अयं स रसनोत्कर्षी' (पृ. ११० ) इति । इदं हि भूरिश्रवसः समरभुवि पतितं बाहुं दृष्ट्वा तत्कान्तानामनुशोचनम् । तथात्रापि त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा १० व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम् । एवं च -
दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥१९७॥
५
१५
२०
२५
इत्यादावपि शृङ्गारः शान्तस्याङ्गम् । तथा हि-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इति शृङ्गारेण शान्त एव पोष्यत इति । यत्र तु न पोष्यते तत्रानङ्गत्वाद्दोष एव । यथा
[
Jain Education International
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ १९८ ॥
अत्र प्रकृतस्य करुणरसस्य विरुद्धः शृङ्गारो न पोषकः । ८७) विभावानुभावक्लेशव्यक्तिपुनः पुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गातिविस्तराङ्गयननुसन्धानानङ्गाभिधानप्रकृतिव्यत्ययाश्च ॥३॥
एते चाष्टौ रसस्य दोषाः । तंत्र विभावानुभावयोः क्लेशव्यक्तिर्यथा
परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ १९९॥
For Private & Personal Use Only
[ रघु० ११.२०]
]
www.jainelibrary.org