________________
१२२
[काव्यानुशासनम् न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानाद्विरोधो निवर्तते । यथा
भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥१९२।। सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥१९३।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानाँल्ललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ॥१९४।।
अत्र बीभत्सशृङ्गारयोरन्तरा वीररसनिवेशान विरोधः । वीराः स्वदेहानित्यादिना उत्साहाद्यवगत्या १० कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता । स्वदेहानित्यनेन चैकत्वाभिमानादाश्रयैक्यम् ।
अनङ्गत्वे-इति । द्वयोर्विरुद्धयोरङ्गित्वे दोषः, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि
निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टाः । यथा-'भ्रमिमरतिमलसहृदयताम्' १५ (पृ. ११०) इत्यादि । समारोपितायामप्यदोषो यथा 'कोपात्कोमललोलबाहुलतिका' (पृ. १६) इत्यादि ।
अत्र बद्ध्वा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । ____ इयं चाङ्गभावप्राप्तिरन्या। यदाधिकारिकत्वात्प्रधान एकस्मिन् काव्यार्थे रसयो वयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः। यथा--
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साम्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥१९५॥
[अमरुशतक-२] अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्गमिति न तयोर्विरोधः । २५ पराङ्गत्वेऽपि कथं विरोधिनोर्विरोधनिवृत्तिरिति चेत्, उच्यते । विधौ विरुद्धसमावेशस्य दुष्टत्वं, नानुवादे । यथा
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥१९६॥
[सुभाषितावलौ (१३६८) व्यासमुनेः]
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org