________________
१२०
१०
[काव्यानुशासनम् अबाध्यत्वे-इति । अबाध्यत्वमशक्याभिभवत्वम् । तदभावे न केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा-'क्वाकार्यं शशलक्ष्मणः' (पृ. ८२) इत्यादि । अत्र वितर्कोत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृतिचिन्तने परस्परबाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमास्वादस्थानम् ।
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । __ किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥१८९।।
[ व्यासस्य, औचित्यविचारचर्चायां, सुभाषितावलौ (श्लो. ३२६६)] अत्र त्वाद्यमघु बाध्यत्वेनौवोक्तम् । द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति, न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु
(१४) विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ।।
[ध्वन्यालोक ३.३०] इति विरोधपरिहारमाह।
आश्रयैक्ये-इति । एकाश्रयत्वे दोषो भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परविरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोषः । यथा-अर्जुनचरिते
.. समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनः
महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् । श्रवेण तस्य तु ध्वनेविलुप्तमूलबन्धनं अशेषदैत्ययोषितां श्लथीबभूव जीवितम् ॥१९०॥
[अर्जुनचरिते] इत्यादि।
नैरन्तर्ये-इति । एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोर्निरन्तरत्वे दोषो न तु रसन्तिरान्तरितयोः । यथा नागानन्दे शान्तरसस्य'अहो गीतमहो वादितम्' ॥१९॥
[नागानन्द १ (पृ. १०)] इत्यद्भुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवर्ती प्रति शृङ्गारो निबद्धः ।
२०
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org