________________
११८
१५
अत्र व्रीडादीनाम् ।
क्वचित् सञ्चारिवर्जमिति वचनात् क्वचिन्न दोषो यथा -
[ रत्नावली १.२]
अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव दूरादुत्सुकम्' (पृ. ५८) इत्यादौ व्रीडाद्यनुभावानां विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा १० प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।
८६) अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिप्रातिकूल्यम् ॥२॥ अबाध्यत्वादिषु सत्सु विभावादिप्रातिकूल्यं रसादेर्दोषः । यथा
प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः ।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ १८७॥
२५
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैबन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्वा वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः || १८६ ||
[सुभाषितावलौ (१६२९) चन्द्रकस्य ]
अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादिवैराग्यकथाभिः प्रियानुनयनं निर्विण्णस्येव कस्यचिदिति शृङ्गारप्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति २० विभावप्रातिकूल्यम् तत्प्रकाशितो निर्वेदश्च स्वदत इति व्यभिचारिप्रातिकूल्योदाहरणमप्येतत् । एवं शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम् ।
यथा च
[काव्यानुशासनम्
Jain Education International
निहुअरमणम्मि लोअणपहम्मि पडिए गुरूण मज्झम्मि । सयलपरिहारहि अया वणगमणं चेअ महइ वहू ॥१८८॥
अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेन्न दोषः ।
For Private & Personal Use Only
www.jainelibrary.org