SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ११२ [काव्यानुशासनम् अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्ग्यमतिस्फुटत्वेन प्रतीयमानमसत्प्राधान्यमेव कामिनीकुचकलशवत्तद्गूढं चमत्करोति नागूढम् । संदिग्धप्राधान्ये यथा ___ महिलासहस्सभरिए तुह हिअए सुहय सा अमायन्ती। अणुदिणमणण्णकम्मा अंगं तुणयं पि तणुएइ ॥१७८॥ [गाथासप्तशती २.८२] अत्र अङ्गं तनुकमपि तनूकरोतीति किं वाच्यम्, किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वा दौर्जन्यं सानुनीयतामिति व्यङ्ग्यं प्रधानमिति संदिग्धम् । तुल्यप्राधान्ये यथा-'ब्राह्मणातिक्रम' (पृ. ९२) इति । अत्र जामदग्न्यः सर्वेषां क्षत्राणामिव रक्षसां १० क्षयं करिष्यतीति व्यङ्ग्यस्य वाचस्य च समं प्राधान्यम् । यथा वा पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताप्यथवा त्रपेरन् । सन्तोऽप्यसन्त इति (? इव) चेत्प्रतिभान्ति भानोर्भासावृते नभसि शीतमयूखमुख्याः ॥१७९॥ । [भल्लटशतक ११] अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् । यथा वा मथ्नामि कौरवशतं समरे न कोपादुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥१८०॥ [वेणी० १.१५] अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यतुल्यभावेन स्थितम् । इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ । ८४) अव्यङ्गयमवरम् ॥५९॥ २५ शब्दार्थवैचित्र्यमानं व्यङ्ग्यरहितं अवरं काव्यम् । यथा अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हताद्धरुघुराघोषः सुदीर्घो घोरघर्धरः ॥१८१।। १५ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy