________________
११०
[काव्यानुशासनम् अत्र 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति व्यङ्ग्या 'त्सीदन्त्यङ्गानि' इति वाच्यमेव सातिशयम् । क्वचित्पराङ्गत्वेन यथा
__ अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । V नाभ्यूरुजघनस्पर्शी नीवीविलंसनः करः ॥१७३।।
महाभारत स्त्रीपर्व २४.१९] अत्र शृङ्गारः करुणस्याङ्गम् । यथा च
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिदिशमुदभु प्रलपितम् । y कृता लंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता नत्वधिगता ॥१७४।।
[कविकण्ठामरणे - भट्टवाचस्पतेः] अत्र व्यङ्ग्य उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । यथा वा
भ्रमिमरतिमलसहृदयतां प्रलयं मूछौँ तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥१७५।।
२०
अत्र हालाहलं वस्तु व्यङ्ग्यं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा, अहयं उज्जुअरूआ तस्स वि उम्मन्थराइं पिम्माई । सहिआअणो अ निउणो अलाहि किं पायराएण ॥१७६॥
[गाथासप्तशती २.२७] अत्र स मां पुरुषायितेऽर्थयते, अहं च निषेद्धुमशक्ता, तत्सख्यः पादमुद्रया तर्कयित्वा मा मां हसिषुरिति व्यङ्ग्यमस्फुटम् । क्वचिदतिस्फुटत्वेन यथा
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥१७७॥
[सुभाषितावलौ (२८५४) रविगुप्तस्य]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org