________________
१०८
१०
१५
२०
२५
यथा वा
स्तुमः
कं वामाक्षि क्षणमपि विना यन्न रमसे
विलेभे कं प्राणान् रणमखमुखे यं मृगयसे । सुलको जातः शशिमुखि यमालिङ्गसि बलात्
तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ १६९॥
[
अत्रानेककामुकविषयमभिलाषस्तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति ।
भावाभासो यथा
निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावणस्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु || १७०॥
Jain Education International
[काव्यानुशासनम्
अत्रौत्सुक्यम् ॥
काव्यस्य लक्षणमुक्त्वा भेदानाह
८२) व्यङ्ग्यस्य प्राधान्ये काव्यमुत्तमम् ॥५७॥
वाच्यादर्थाद् व्यङ्ग्यस्य वस्त्वलङ्काररसादिरूपस्य प्राधान्य उत्तमं काव्यम् । यथा वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्वं साध्वथ वा रुणत्सि विरहक्षामस्य रामस्य चेत् त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं शरम् ॥ १७१ ॥
*
[बालरामायण १.४०]
]
अत्र दन्ताङ्कितपदेन तदवजयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण व्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते ।
८३) असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा ॥५८॥
असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्ग्यस्य मध्यमं काव्यम् । तत्रासत्प्राधान्यं क्वचिद्वाच्यादनुत्कर्षेण यथावाणीरकुडगुड्डीणसउणिकोलाहलं सुणंतीए । घरकम्मवावडाए वहूए सीयंति अंगाई || १७२ ।।
[सप्तशतकम् ८७४]
For Private & Personal Use Only
-
www.jainelibrary.org