SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १०६ [काव्यानुशासनम् यथा वा नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुगर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । । दानास्वादिनिषण्णमूकमधुपव्यासङ्गदीनाननो । नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥१६४॥ भावाभासो यथा त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये । - वनं प्रयात्यसौ व्रीडाजडदृष्टिगीजनः ॥१६५॥ १० आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात् संभोगाभासो यथा __ अङ्गुलीभिरिव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः । - कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥१६६॥ [कुमार० ८.६३] भावाभासो यथा... त्वदीयं मुखमालोक्य लजमानो निशाकरः । मन्ये घनघटान्तर्धि समाश्रयति सत्वरः ॥१६७।। १५ २० | रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्लेषादयो जीवितम् । ८१) अनौचित्याच्च ॥५६॥ अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ । रसाभासो यथा दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं चेतःकालकलामपि प्रसहते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैनङ्गातुरैः संपद्येत कथं तदाप्तिसुखमित्येतन्न वेद्यि स्फुटम् ॥१६८॥ अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy